मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् ४

संहिता

क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ ।
श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥

पदपाठः

क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ ।
श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥

सायणभाष्यम्

क्रत्वा कर्मणा प्रज्ञया वा महान् सर्वाधिको भीमः शत्रूणां भयंकर इंद्रोऽनुष्वधम् । स्वधेत्यन्ननाम । स्वधायाम् । विभक्त्यर्थेऽव्ययीभावः । सोमलक्षणस्यान्नस्य पाने सतीत्यर्थः । शव आत्मीयं बलमा ववृधे । आभिमुख्येन प्रावर्धयत् । तदनंतरमृष्वो दर्शनीयः शिप्री । शिप्री हनू नाकेसि वा । तद्युक्तः हरिवान् हरिनामकाश्वोपेत इंद्र उपाकयोः । अंतिकनामैतत् । समीपवर्तिनोर्हस्तयोर्बाह्वोरायसमयोमयं वज्रं श्रिये संपदर्थं नि दधे । निदधाति स्थापयति । सोमपानेन हृष्टः प्रबल इंद्रः शत्रूणां हननाय हस्ते वज्रं गृण्हातीति तात्पर्यार्थः ॥ क्रत्वा । जसादिषु छंदसि वावचनमिति नाभावस्य विकल्पितत्वादभावः । आयसम् । तस्य विकार इत्यण्प्रत्ययः ॥ ५ ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः