मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् ५

संहिता

आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि ।
न त्वावाँ॑ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥

पदपाठः

आ । प॒प्रौ॒ । पार्थि॑वम् । रजः॑ । ब॒द्ब॒धे । रो॒च॒ना । दि॒वि ।
न । त्वाऽवा॑न् । इ॒न्द्र॒ । कः । च॒न । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ । अति॑ । विश्व॑म् । व॒व॒क्षि॒थ॒ ॥

सायणभाष्यम्

इंद्रः स्वतेजसा पार्थिवं पृथिव्याः संबंधि वस्तुजातं रजोऽंतरिक्षलोकं चा पप्रौ । आपूरयति । तथा दिवि द्युलोके रोचना रोचमानानि दीप्तानि नक्षत्राणि बद्बधे । बबंध । स्थापितवान् । अतो हे इंद्र त्वावान् त्वत्सदृशः कश्चन न जातो नोत्पन्नोऽस्ति । न च जनिष्यते । उत्पत्स्यमानोऽपि नास्ति । तादृशस्त्वं विश्वं सर्वं रक्षितव्यं जगदति ववक्षिथ । अतिशयेन वोढुमिच्छसि । सर्वस्य जगतो निर्वाहको भवसीत्यर्थः ॥ पप्रौ । प्रा पूरणे । लिट्यात औ णलः (पा ७-१-३४) इत्यौकारादेः पार्थिवम् । पृथिव्या ञाञौ । पा ४-१-८५-२ । इत्यञ्प्रत्ययः । ञित्त्वादाद्युदात्त त्वम् । रजः । रजंत्यस्मिन् गंधर्वादय इति रजोऽंतरिक्षम् । रंज रागे । असुनि रजकरजनरजःसूपसंख्यानम् । का ६-४-२४-४ । इति नलोपः । बद्बधे । बध बंधने । लिट व्यत्ययेन हलादिशेषाभावः । एकहल्मध्यगतत्वाभावादेत्वाभ्यासलोपावपि न स्तः । पादादित्वान्निघाताभावः । त्वावान् । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानमिति वतुप् । आ सर्वनाम्न इत्यात्वम् । ववक्षिथ । वह प्रापणे । अस्मादिच्छा । सनि सन्यत इतीत्वस्य सर्वे विधयश्छंदसि विकल्प्यंत इत्यभावः । सनंताल्लिट्यमंत्र इति निषेधादाम्प्रत्ययाभावः ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः