मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् ६

संहिता

यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ ।
इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥

पदपाठः

यः । अ॒र्यः । म॒र्त॒ऽभोज॑नम् । प॒रा॒ऽददा॑ति । दा॒शुषे॑ ।
इन्द्रः॑ । अ॒स्मभ्य॑म् । शि॒क्ष॒तु॒ । वि । भ॒ज॒ । भूरि॑ । ते॒ । वसु॑ । भ॒क्षी॒य । तव॑ । राध॑सः ॥

सायणभाष्यम्

अर्यः स्वामी पालयिता य इंद्रो मर्तभोजनं सर्वैर्मनुष्यैरुपभोज्यमन्नं दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय पराददाति प्रयच्छति स इंद्रोऽस्मभ्यं शिक्षतु । तादृशमन्नं ददातु । अवशिष्टपादद्वयं प्रत्यक्षकृतम् । हे इंद्र अस्मभ्यं दातुं धनं वि भज । विभक्तं कुरु । यतस्ते तव वसु धनं भूरि बहुलमसंख्यातं अतस्तव राधसो धनस्यैकदेशं भक्षीय । भजेय । प्राप्नुयां ॥ पराददाति । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । दाशुषे । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपात्यते । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । भक्षीय । भज सेवायाम् । प्रार्थनायां लिङि तस्य च्छंदस्युभयथेत्यार्धधातुकत्वाच्छबभावः सलोपाभावश्च । एकाच इतीट् प्रतिषेधः । आगमानुदात्तत्वे प्रत्ययस्वर एव शिष्यते । पूर्वपदस्यासमानवाक्यगतत्वान्निघाताभावः । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या इति वचनात् ॥ ६ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः