मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८१, ऋक् ७

संहिता

मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतु॑ः ।
सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥

पदपाठः

मदे॑ऽमदे । हि । नः॒ । द॒दिः । यू॒था । गवा॑म् । ऋ॒जु॒ऽक्रतुः॑ ।
सम् । गृ॒भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु॑ । शि॒शी॒हि । रा॒यः । आ । भ॒र॒ ॥

सायणभाष्यम्

चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो मदेमदे हि नो ददिरिति वैकल्पिकोऽनुरूपस्तृचः । होत्रकाणामिति खंडे सूत्रितम् । मदेमदे हि नो ददिः सुरूपकृत्नुमूतये (आ ७-४) इति ॥

मदे मदे सोमपानेन हर्षे हर्षे सति ऋजुक्रतुर्ऋजुकर्मा स इंद्रो नोऽस्मभ्यं गवां यूथा यूथानि ददिर्हि गोयूथानां दाता खलु । हे इंद्र स त्वं पुरु । पुरूणि प्रभूतानि शता शतसंख्याकानि । अपरिमितानीत्यर्थः । वसु वसूनि धनान्युभयाहस्त्योभाभ्यां हस्ताभ्यां सं गृभाय । अस्मभ्यं दातुं सम्यग्गृहाण शिशीहि । अस्मांस्तीक्ष्णीकुरु । निशितबुद्धियुक्तान् कुर्वित्यर्थः । रायो धनानि हस्तयोः स्थितान्या भर । आहर । प्रयच्छ ॥ ददिः । डुदाञ् दाने । आदृगमहनजन इति किप्रत्ययः यूथा । शेश्छंदसि बहुलमिति शेर्लोपः । गवाम् । सावेकाच इति प्राप्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । गैभाय । ग्रह उपादाने । लोट हौ छंदसि शायजपि (पा ३-१-८४) इति श्नाप्रत्ययस्य शायजादेशः । हृग्रहोर्भ इति भत्वम् । उभयाहस्तशब्दादुत्तरस्य तृतीयाद्विवचनस्य सुपां सुलुगिति ड्यादेशः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । समासांतोदात्तत्वं उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वसु । सुपां सुलुगिति विभक्तेर्लुक् । शिशीहि । शो तनूकरणे । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । इदित्यनुवृत्तौ बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरिति धातोरीत्वम् । पादादित्वान्निघाताभावः । रायः । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ७ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः