मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८२, ऋक् ४

संहिता

स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् ।
यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥

पदपाठः

सः । घ॒ । तम् । वृष॑णम् । रथ॑म् । अधि॑ । ति॒ष्ठा॒ति॒ । गो॒ऽविद॑म् ।
यः । पात्र॑म् । हा॒रि॒ऽयो॒ज॒नम् । पू॒र्णम् । इ॒न्द्र॒ । चिके॑तति । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

सायणभाष्यम्

स घ स खल्विंद्रो वृषणं कामाभिवर्षकं गोविदं गवां लंभयितारं तं रथमधि तिष्ठाति । ईदृशे रथेऽधितिष्ठतु । आरूढो भवतु । हे इंद्र यो रथो हारियोजनमेतत्संज्ञकं धानामिश्रितं पूर्णं सोमेन पूर्णं पात्रं चिकेतति ज्ञापयति । तं रथमधितिष्ठेति पूर्वेणान्वयः । अधिष्ठाय च त्वदीयावश्वौ क्षिप्रं योजय ॥ घ ऋचि तनुघेति दीर्घः । रथम् । अधिशीङ् स्थासां कर्म (पा १-४-४६) इत्यधिकरणस्य कर्मसंज्ञा । तिष्ठाति । तिष्ठतेर्लेट्याडागमः । चिकेतति । कित ज्ञाने । लेट्यडागमः । जुहोत्यादित्वाच्छपः श्लुः । बहुलं छंदसीति वक्तव्यम् । का ७-३-८७ १ । इति वचनान्नाभ्यस्तस्याचि पितीति लघूपधगुणप्रतिषेधो न भवति ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः