मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८२, ऋक् ६

संहिता

यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः ।
उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्त्समु॒ पत्न्या॑मदः ॥

पदपाठः

यु॒नज्मि॑ । ते॒ । ब्रह्म॑णा । के॒शिना॑ । हरी॒ इति॑ । उप॑ । प्र । या॒हि॒ । द॒धि॒षे । गभ॑स्त्योः ।
उत् । त्वा॒ । सु॒तासः॑ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्ऽवान् । व॒ज्रि॒न् । सम् । ऊं॒ इति॑ । पत्न्या॑ । अ॒म॒दः॒ ॥

सायणभाष्यम्

अंत्येष्वहःसु हारियोजनस्य युनज्मीत्येषा याज्या । सूत्रितम् । युनज्मिते ब्रह्मणा केशिना हरी इति याज्यानुवाक्ये अंत्येष्वहःसु (आ ६-११) इति ॥

हे इंद्र केशिना केशयुक्तौ शिखावंतौ ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्ररूपेण मंत्रेण युनज्मि । रथे संयोजयामि । तेन रथेनोप प्र याहि । त्वद्गृहमुपगच्छ । गभस्त्योः । बाहुनामैतत् । बाह्वोरश्वबंधकान् रश्मीन् दधिषे । धारयस्व । त्वा त्वां सुतासो यज्ञेऽभिषुताः सोमा रभसा वेगवंतः । तीव्राः क्षिप्रं मदकारिण इत्यर्थः । उदमंदिषुः । उत्कृष्टमदयुक्तमकार्षुः । हे वज्रिन् अतस्त्वं स्वगृहं गत्वा पूषण्वान् । अत्र पूषन् शब्दः पुष्टौ वर्तते । पुष्टिर्वै पूषा पुष्टिमेवावरुंद्ध इति श्रुतेः । सोमपानजनितया पुष्ट्या युक्तः सन् पत्ना स्वभार्यया सह समु अमदः । सम्यगेव तृप्तो भव ॥ केशिना केशशब्दान्मत्वर्थीय इनिः । सुपां सुलुगिति विभक्तेराकारः । रभसाः । अर्श आदित्वा दच् । अमंदिषुः । व्यत्ययेन परस्मैपदम् । पूषण्वान् । पुष पुष्टौ । श्वन्नुक्षन्नित्यादौ पूषन्निति निपात्यते । तच्चात्र भावसाधनं द्रष्टव्यम् । पूषाऽस्यास्तीति पूषण्वान् । मादुपधाया इति मतुपो वत्वम् । नलोपेऽनो नुट् (पा ८-२-१६) इति नुट् । ह्रस्वनुड्छ्यां मतुबिति मतुप उदात्तत्वम् । अमदः । मदी हर्षे । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लङ् । श्यनि प्राप्ते व्यत्ययेन शप् ॥ ६ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः