मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८३, ऋक् २

संहिता

आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ ।
प्रा॒चैर्दे॒वास॒ः प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥

पदपाठः

आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रजः॑ ।
प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥

सायणभाष्यम्

अपोनप्त्रीये होतृचमसेऽद्भिः पूर्यमाण आपो न देवीरित्येषानुवक्तव्या । सूत्रितं च । आपो न देवीरुप यंति होत्रियमिति समाप्य (आ ५-१) इति ब्राह्मणं च भवति । आपो न देवीरुप यंति होत्रियमिति होतृचमसे सम वनीयमानास्वन्वाह । ऐ ब्रा । २-२० । इति ॥

होत्रियं होतुः स्वभूतं चमसं देवीर्देव्यो द्योतमाना आपो न यथाप उप यंति उपगच्छंति तद्वदुपरि वर्तमाना देवा एतमेव चमसमवोऽवस्तात्पश्यंति । होतृचमसेऽस्माकं सोमाभिषवायापः पूरिता इति तेषां दृष्टिरप्यस्मिन् संलग्नाभूत् । तत्र दृष्टांतः । विततं विस्तीर्णं रजो ज्योतिः सूर्यसंबंधि यथा निरंतरमवस्तात्पतति तद्वत् । देवयुं देवान् कामयमानमेतं चमसु प्राचैः प्राचीनं यद्वा प्रांचनैः प्रगमनैरुत्तरवेद्यभिमुखं होमकाले प्रणयंति । होमार्थे प्रणीतं बह्मप्रियं ब्रह्मणा सोमलक्षणेनान्ने प्रीतं संतृप्तम् । पूरितमित्यर्थः । जोषयंते । सर्वे देवास्तं चमसं सेवंते । वरा इव कन्यकाम् । यथा वरा ममेयं भविष्यति ममेयं भविष्यतीति कन्यकां सेवंते । एवं देवा अपि ममायं सोमो ममायं सोम इत्यस्य पार्श्वे वर्तंत इत्यर्थः । एवमपोनप्त्रियविनियोगानुसारेण योजितं मंत्रस्यानुष्ठेयार्थप्रकाशकत्वात् ॥ यदा तु रात्रिपर्याऽयेस्या विनियोगस्तदा त्वेवं व्याख्येयम् । हे इंद्र देव्य आपो यथा निम्न देशमुपगच्छंति एवं देवास्त्वदीयं स्तोत्रं शुश्रूषमाणा होत्रियं होतृसंबंधि धिष्ण्यस्थानमुपगच्छंति । उपगत्य चावस्तात्पश्यंति विततं ज्योतिरिव । देवयुं देवानात्मन इच्छंतमेतं शंसितारमागताः सर्वे देवाः प्राचीनं प्रणयंति । अग्रतो धारयंति । ब्रह्मप्रियं स्तोत्रप्रियं त्वां शंसंतं वराः कन्यका इव सेवंते ॥ होत्रियम् । होतृशब्दात्तस्येदमर्थे घप्रत्ययः अवः । पूर्वाधरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययांतोदात्तः । प्राचैः । उच्चैर्नीचैरितिवदव्ययम् । यद्वा । प्रपूर्वादंचतेर्घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थमितिपरिगणनस्योपलक्षणार्थत्वाद्भावे कप्रत्ययः । अनिदितामिति नलोपः । जोषयंतेजुषी प्रीतिसेवनयोः । स्वात्मनः प्रयोज्यत्वाद्धेतुमति णिच् ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः