मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८३, ऋक् ४

संहिता

आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑य॒ः शम्या॒ ये सु॑कृ॒त्यया॑ ।
सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥

पदपाठः

आत् । अङ्गि॑राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः॑ । इ॒द्धऽअ॑ग्नयः । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ ।
सर्व॑म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नरः॑ ॥

सायणभाष्यम्

यदा पणिभिर्गावोऽपहृतास्तदानीमंगिरा अंगिरसः प्रथमं पूर्वमग्रतो वयो हविर्लक्षणमन्नं दधिरे । इंद्रार्थं संपादितवंतः । आदनंतरं तादृशा येऽंगिरस इद्धाग्नयः प्रज्वलिताग्नियुक्ताः संतः सुकृत्यया शोभनकरणोपेतया शम्या कर्मणा शोभनेन यागेनेंद्रमयजन्निति शेषः । ते नरो यज्ञस्य नेतारोऽंगिरसः पणेरेतन्नाम्नोऽसुरस्य संबंधि सर्वं भोजनं धनं समविंदंत । समलभंत । कीदृशम् । अश्वावंतं अश्वैर्युक्तं गोमंतं गोभिर्युक्तम् । आकारः समुच्चये । गवाश्वव्यतिरिक्तमन्यत्पशुजातं च समविंदंत ॥ अंगिराः । सुपां सुलुगिति जसः सुः । शम्या । शमीति कर्मनाम । शाम्यत्यनया क्रियया दोषजातमिति शमी । करणे घञ । नोदात्तोपदेशस्य मांतस्यानाचमेः (पा ७-३-३४) इति वृद्धिप्रतिषेधः । गौरादित्वात् ङीष् । व्यत्ययेनाद्युदात्तश्वम् । सुकृत्यया । शोभनं कृत्यं करणं यस्यां सा तथोक्ता । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः