मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८३, ऋक् ६

संहिता

ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।
ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥

पदपाठः

ब॒र्हिः । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्कः । वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ।
ग्रावा॑ । यत्र॑ । वद॑ति । का॒रुः । उ॒क्थ्यः॑ । तस्य॑ । इत् । इन्द्रः॑ । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥

सायणभाष्यम्

स्वपत्याय शोभनापतहेतुभूताय कर्मणे बर्हिर्वा यद्यदा वृज्यते छिद्यते अध्वर्युणा यागार्थमाह्रियते । अर्को वा स्तोत्रनिष्पादको होता वा श्लोकं स्तुतिरूपां वाचं दिवि द्योतमाने यज्ञे यदाघोषते उच्चारयति । यत्र यस्मिन्काले ग्रावाभिषवार्थं प्रवृत्त उपलो वदति शब्दं करोति । तत्र दृष्टांतः । कारुरुक्थ्यः । लुप्तोपममेतत् । उक्थ्यस्य शस्त्रस्य शंसिता कारुः स्तोता यथाभिमतशब्दं करोति तद्वत् । तस्य पूर्वोक्तस्य सर्वस्याभिपित्वेष्वभिप्राप्तिष्विंद्रो रण्यति । रमते । यद्वा । पूर्वोक्तानां बर्हिरादीनामभिप्राप्तिषु सतीष्विंद्रो रण्यति । अस्मदीयो यागो भविष्यतीति हर्पशब्दं करोति ॥ वृज्यते । वृजी वर्जने अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । आघोषते । घुषिर् विशब्दने । भौवादिकः । अत्रापि यदित्यस्य निपातस्यानुषंगान्निघाताभावः । रण्यति । रमु क्रीडायाम् । व्यत्ययेन श्यन् परस्मैपदं च । अंत्यविकारश्छांदसः । यद्वा । रण शब्दार्थः । व्यत्ययेन श्यन् ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः