इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् ।
ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥
इन्द्र॑म् । इत् । हरी॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् ।
ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥
अप्रतिधृष्टशवसं केनाप्यप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः । इंद्रमिदिंद्रमेव ऋषीणां वसिष्ठादीनां मानुषाणामन्येषां मनुष्याणां च स्तुतीर्यज्ञं च हरी अश्वावुप वहतः । समीपं प्रापयतः । यत्र यत्र स्तुवंति यत्र यत्र यजंते तत्र सर्वत्रेंद्रमश्वौ प्रापयत इत्यर्थः ॥ मानुषाणाम् । मनोर्जाताविति मनुशब्धादञ् षुगागमश्च ॥ २ ॥