मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ३

संहिता

आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥

पदपाठः

आ । ति॒ष्ठ॒ । वृ॒त्र॒ऽह॒न् । रथ॑म् । यु॒क्ता । ते॒ । ब्रह्म॑णा । हरी॒ इति॑ ।
अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । ग्रावा॑ । कृ॒णो॒तु॒ । व॒ग्नुना॑ ॥

सायणभाष्यम्

हे वृत्रहन् शत्रूणां हंतरिंद्र रथमा तिष्ठ । आरोह । यस्मात्ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्रलक्षणेन मंत्रेण युक्ता रथेऽस्माभिर्योजितौ तस्मात्त्वं रथमातिष्ठ । ते मनस्त्वदीयं मनश्च ग्रावाभिषवार्थं प्रवृत्तः पाषाणो वग्नुना वचनीयेनाभिषवशब्देनार्वाचीनमस्मदभिमुखं सु कृणोतु । सुषु करोतु ॥ युक्ता । सुपां सुलुगित्याकारः । वग्नुना । वचेर्गश्च (उ ३-३३) इति नुप्रत्ययो गकारश्चांतादेशः ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः