मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ४

संहिता

इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥

पदपाठः

इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ । ज्येष्ठ॑म् । अम॑र्त्यम् । मद॑म् ।
शु॒क्रस्य॑ । त्वा॒ । अ॒भि । अ॒क्ष॒र॒न् । धाराः॑ । ऋ॒तस्य॑ । साद॑ने ॥

सायणभाष्यम्

हे इंद्र सुतमभिषुतमिमं सोमं पिब । कीदृशम् । ज्येष्ठ मतिशयेन प्रशस्यं मदं मदकरं अमर्त्यममारकम् । सोमपानजन्यो मदो मदांतरवन्मारको न भवतीत्यर्थः । तथा ऋतस्य यज्ञस्य संबंधिनि सदने गृहे वर्तमानाः शुक्रस्य दीप्तस्यास्य सोमस्य धारस्त्वामभ्यक्षरन् । आभिमुख्येन संचलंति । त्वां प्राप्नुवंति । स्वयमेवागच्छंतीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दादिष्ठनि ज्य च (पा ५-३-६१) इति ज्यादेशः । अक्षरन् । क्षर संचलने । छांदसो लङ् ॥ ४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः