मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ६

संहिता

नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकि॒ः स्वश्व॑ आनशे ॥

पदपाठः

नकिः॑ । त्वत् । र॒थिऽत॑रः । हरी॑ । यत् । इ॒न्द्र॒ । यच्छ॑से ।
नकिः॑ । त्वा॒ । अनु॑ । म॒ज्मना॑ । नकिः॑ । सु॒ऽअश्वः॑ । आ॒न॒शे॒ ॥

सायणभाष्यम्

हे इंद्र यद्यस्मात्त्वं हरी एतत्संज्ञावश्वौ यच्छसे रथे योजयसि तस्मात्त्वत्तोऽन्यः कश्चिद्रथीतरोऽतिशयेन रथवान् नकिः । नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । त्वा त्वामनुलक्ष्य मज्मना । बलनामैतत् । बलेन सदृशोऽपि नकिः । न ह्यस्ति । स्वश्वः शोभनाश्वोऽन्यश्च । त्वां नकिरानशे । न प्राप । इंद्रस्य बलाश्चयोरसाधारणत्वादिंद्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्ट्वत् युष्मत्तत्ततक्षुःष्वंतःपादमिति षत्वम् । रथीतरः । अतिशयेन रथी । तरपीद्रथिनः । पा ८-२-८७-१ । इती कारांतादेशः । अवग्रहसमये छांदसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेनात्मनेपदम् । स्वश्वः । बहुव्रीहावाद्युदात्तम् । द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । आनशे । अश्नोतेश्चेत्यभ्यासादुत्तरस्य नुट् ॥ ६ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः