मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ७

संहिता

य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥

पदपाठः

यः । एकः॑ । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।
ईशा॑नः । अप्र॑तिऽस्कुतः । इन्द्रः॑ । अ॒ङ्ग ॥

सायणभाष्यम्

आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनो य एक इद्विदयत इति वैकल्पिकः स्तोत्रियस्तृचः । एह्यूष्विति खंडे सूत्रितम् । सखाय आशिषामहि य एक इद्विदयते (आ ७-८) इति ॥ महाव्रतेऽपि निष्केवल्य औष्णिहतृचाशीतावयं तृचो विनियुक्तः । तथैव पंचमारण्यके सूत्र्यते । य एक इद्विदयत आ याह्यद्रिभिः सुतम् । ऐ ब्रा ५-२-५ । इति ॥

य इंद्र एक इत् एक एव दाशुषे हविर्दत्तवते मर्ताय मनुष्याय यजमानाय वसु धनं विदयते विशेषेण ददाति । अंगेति क्षिप्रनाम । अप्रतिष्कुतः परैरप्रतिशब्दितः । प्रतिकूलशब्दरहित इत्यर्थः । एवंभूतः स इंद्रः क्षिप्रमीशानः सर्वस्य जगतः स्वामी भवति ॥ विदयते । दय दानगतिरक्षणहिंसादानेषु । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते यद्वृत्तयोगादनिघातः । अप्रतितिष्कुतः । कु शब्दे । प्रतिकूलं कूयते शब्द्यत इति प्रतिस्कुतः । पारस्करादेवराकृति गणत्वात्सुट् । सुषामादित्वात्षत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः