मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ८

संहिता

क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥

पदपाठः

क॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् ।
क॒दा । नः॒ । शु॒श्र॒व॒त् । गिरः॑ । इन्द्रः॑ । अ॒ङ्ग ॥

सायणभाष्यम्

अराधसं हविर्लक्षणेन राधसा धनेन रहितम् । अयष्टारमित्यर्थः । एवं विधं मर्तं मनुष्यमिंद्रः पदा पादेन क्षुंपमिवाहिच्छत्त्रकमिव कदा स्फुरत् । स्फुरिष्यति । वधिष्यति । यथाहिच्छत्त्रं मंडलाकारेण शयानं कश्चिदनायासेन हंति एवमिंद्रोऽपि कदाऽस्मच्छत्रून् हनिष्यतीत्यर्थः । स्फुरतिर्वधकर्मा । स्फुरति स्फुलतीति वधकर्मसु पठितत्वात् । नोऽस्माकं यष्वृणां गिरः स्तुतिलक्षणा वाच इंद्रः कदा कस्मिन्कालेऽंग क्षिप्रं शुश्रवत् । श्रोष्यतीति वितर्क्यते । अत्र निरुक्तम् । क्षुंपमहिच्छत्त्रकं भवति यत् क्षुभ्यते । कदा मर्तमनाराधयंतं पादेन क्षुंपमिवावस्फुरिष्यति । कदा नः श्रोष्यति गिर इंद्रोऽंग । अंगेति क्षिप्रनाम (नि ५-१७) इति ॥ पदा । पादशब्दस्य पद्दन्नित्यादिना पदादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । क्षुंपमिव । क्षुभ संचलने । अस्मात्कर्मणि घञि बहुलवचनाद्धातोर्नुमागमः । वर्मव्यापत्त्या भकारस्य पकारः । स्फुरत् । स्फुर संचलने । छंदसि लुङ् लङ् लिट इति लृडर्थे लङ् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शुश्रवत् । श्रु श्रवणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः