मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ९

संहिता

यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥

पदपाठः

यः । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्यः॑ । आ । सु॒तऽवा॑न् । आ॒ऽविवा॑सति ।
उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः॑ । इन्द्रः॑ । अ॒ङ्ग ॥

सायणभाष्यम्

बहुभ्यो मनुष्येभ्यः सकाशाद्यश्चिद्धि य एव खलु यजमानः सुतावान् अभिषुतसोमयुक्तः सन् हे इंद्र त्वा त्वामाविवासति परिचरति । विवासतिः परिचरणकर्मा । तत्तस्मै यजमानाय यदुग्रमुद्गूर्णं शवो बलमिंद्रोऽंग क्षिप्र पत्यते । पातयति । प्रापयति ॥ तत् । सुपां सुलुगिति चतुर्थ्या लुक् । पत्यते । पत्लृ गतौ । अस्मादंतर्भावितम्यर्थाद्व्यत्ययेन श्यन् ॥ ९ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः