मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १०

संहिता

स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्व॑ः पिबन्ति गौ॒र्य॑ः ।
या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

पदपाठः

स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ ।
याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

चातुर्विंशिकेऽहनि माध्यंदिने सवनेऽच्छावाकस्य स्वासादोरित्था विषूवत इति वैकल्पिकः स्तोत्रियस्तृचः । होत्रकाणामिति खंडे सूत्रितम् । यः सत्राहा विचर्षणिः स्वादोरित्था विषूवतः । आ ७-४ ॥ पृष्ठ्यस्य पंचमेऽहनि निष्केवल्येऽप्ययं तृचोऽनुरूपः । स्तोमे वर्धमान इति खंडे सूत्रितम् । स्वादोरित्था विषूवत उप नो हरिभिः सुतम् (आ ७-१२) इति ॥

स्वादोः स्वादुभूतस्य रसयक्तस्येत्था विषूवत इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य मध्वो मधुररसस्य सोमस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । एवंविधं सोमं गौर्यो गौरवर्णा गावः पिबंति । या गावः शोभसे शोभार्थं वृष्णा कामाभिवर्षकेणेंद्रेण सयावरीः सह यांत्यो गच्छंत्यः सत्यो मदंति हृष्टा भवंति । ता इंद्र पीतस्य सोमस्य शेषं पिबंतीत्यर्थः । वस्वीः पयः प्रदानेन निवासकारिण्यस्ता गावः स्वराज्यं स्वस्य स्वकीयस्येंद्रस्य यद्राज्यं राजत्वम् । तदनुलक्ष्यावस्थिता इति शेषः । विषूवतः । विष्लृव्याप्तौ । अस्मादौणादिकः कुप्रत्ययः । ततो मतुप् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । अन्येषामपि दृश्यत इति संहितायां दीर्घः । व्यत्ययेन मतोर्वत्वम् । मध्वः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । गौर्यः । षिद्गौरादिभ्यश्चेति ङीष् । जसि यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । सयावरीः या प्रापणे । आतो मनिन्निति वनिप् । वनोरचेति । ङीब्रेफौ । मदंति । मदी हर्षे । श्यनि प्राप्ते व्यत्ययेन शप् । वस्वीः वस निवासे । शृस्वृस्निहीत्यादिना वसेरुप्रत्ययः । धान्ये निदित्यनुवृत्तेराद्युदात्तत्वम् । वोतो गुणवचनादित्यत्र गुणवचनान्ङीबाद्युदात्तार्थम् । का ४-१-४४-१ । इति वचनाद्वसुशब्दान्ङीपि यणादेशः । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । स्वस्य राज्यं स्वराज्यम् । अकर्मधारये राज्यम् (पा ६-२-१३०) इत्युत्तरपदाद्युदात्तत्वं ॥ ६ ॥ १० ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः