मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ११

संहिता

ता अ॑स्य पृशना॒युव॒ः सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

पदपाठः

ताः । अ॒स्य॒ । पृ॒श॒न॒ऽयुवः॑ । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।
प्रि॒याः । इन्द्र॑स्य । धे॒नवः॑ । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

ताः पूर्वोक्ता अस्येंद्रस्य पृशनायुवः स्पर्शनकामाः पृश्नयो नानावर्ण गाव इंद्रेण पातव्यं सोमं पयसा श्रीणंति । मिश्रीकुर्वंति । इंद्रस्य प्रियाः प्रीतहेतुभूतास्ता धेनवः सायकं शत्रूणामंतकारकं वज्रमायुधं हिन्वंति शत्रुषु प्रेरयंति । इंद्रो यथा शत्रुषु वज्रं प्रेरयति तथेंद्रस्य मदमुत्पादयंतीत्यर्थः । अन्यत्पूर्ववत् ॥ हिन्वंति । हिविः प्रीणनार्थः । इदित्वान्नुम् । सायकं षो अंतकर्मणि । ण्वुल्यात्वे युगागमः ॥ ११ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः