मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १२

संहिता

ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

पदपाठः

ताः । अ॒स्य॒ । नम॑सा । सहः॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तसः ।
व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥

सायणभाष्यम्

प्रचेतसः प्रकृष्टज्ञानास्ता गावोऽस्येंद्रस्य सहो बलं नमसा स्वकीयेन पयोरूपेणान्नेन सपर्यंति । परिचरंति । पुरूणि बहून्यस्येंद्रस्य व्रतानि । शत्रुवधादिरूपाणि वीर्यकर्माणि सश्चिरे । सेविरे । ज्ञायंत इत्यर्थः । किमर्थम् । पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय । अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्छिः प्राणास्त्यज्यंत इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ॥ सश्चिरे । सश्च गतौ । व्यत्ययेनात्मनेपदम् । चिती संज्ञाने । भावे क्तिन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं ॥ १२ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः