मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १४

संहिता

इ॒च्छन्नश्व॑स्य॒ यच्छिर॒ः पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छर्य॒णाव॑ति ॥

पदपाठः

इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् ।
तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥

सायणभाष्यम्

पर्वतेषु पर्ववत्सु गिरिष्वपश्रितमपगत्य स्थितमश्वस्याश्वसंबंधि दधीचो यच्छिर इच्छन्निंद्रो वर्तते शर्यणावत्येतत्संज्ञे सरसि तच्छिरो विदत् । अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेतिपूर्वस्यामृचि संबंधः ॥ इच्छन् । इषु इच्छायाम् । तुदादित्वाच्छप्रत्ययः । विदत् । वेत्तेर्लुङि व्यत्ययेन च्लेरङादेशः । शर्यणावति । शर्यणा नाम देशाः । तेषामदूरभवं सरः शर्यणावत् । मध्वादिषु शर्यणशब्दस्य पाठान्मध्वादिभ्यश्च (पा ४-२-८६) इति चातुर्थिको मतुप् । संज्ञायामिति मतुपो वत्वम् । मतौ बह्वचोऽनजिरादीनाम् (पा ६-३-११९) इति दीर्घः ॥ १४ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः