मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १८

संहिता

को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभि॑ः ।
कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥

पदपाठः

कः । अ॒ग्निम् । ई॒ट्टे॒ । ह॒विषा॑ । घृ॒तेन॑ । स्रु॒चा । य॒जा॒तै॒ । ऋ॒तुऽभिः॑ । ध्रु॒वेभिः॑ ।
कस्मै॑ । दे॒वाः । आ । व॒हा॒न् । आ॒शु । होम॑ । कः । मं॒स॒ते॒ । वी॒तिऽहो॑त्रः । सु॒ऽदे॒वः ॥

सायणभाष्यम्

को यजमानोऽग्निमीट्वे । इंद्रार्थं हविर्निरुप्याग्निं स्तौति । इंद्राय हविर्निर्वापोऽसि सम्यक्कर्तुं न शक्यते । इंद्रस्य दुर्विज्ञानत्वात् । को वेंद्रया गार्थमग्निं स्रुचा जुह्वा ध्रुवेभिर्ध्रुवैर्नित्यैर्ऋतुभिर्वसंतादिकालैरुपलक्षिते न घृतेन हविषा यजातै । यजेत् । यद्वा । ऋतवः प्रयाजदेवताः । ऋतवो वै प्रयाजा इति श्रुतेः । ताभिर्ध्रुवैः प्रकृतौ विकृतौ चानुष्ठेयतया निश्चलैर्ऋतुभिः सहाग्निमाज्यभागदेवतां घृतेन हविषा को यजेत् । न कोऽपीत्यर्थः । कस्मै यजमानाय होम ह्वातव्यं प्रशस्यं धनमाशु शीघ्रं देवा आ वहान् । आवहंति । प्रयच्छंति । न कस्मा अपीत्यर्थः । इंद्र एव धनस्य दाता नान्ये देवा इतींद्र स्तूयते । वीतिहोत्रः प्राप्तयज्ञः सुदेवः शोभनदेवताकः को यजमानो मंसते । इंद्रं सम्यग्जानाति । न कोऽपीत्यर्थः । बहुविधेन स्तोत्रेण चिरकालोपासनेन चेंद्रः प्रत्यक्षो भवति नान्येन प्रकारेणेति तात्पर्यार्थः ॥ ईट्वे । ईड स्तुतौ । अदादित्वाच्छपो लुक् । स्रुचा । सावेकाच इति विभक्तेरुदात्तत्वम् । यजातै । यजतेर्लेट्याडागमः । वैतोऽन्यत्रेत्यैकारः । वहान् । वहतेर्लेट्याडागमः । इतश्च लोप इतीकारलोपः । संयोगांतस्येति तकारलोपः । होम । ह्वयतेः कृतात्वस्यातो मनिन्निति मनिन् । ह्व इत्यनुवृत्तौ बहलं छंदसीति संप्रसारणम् । यद्वा । नामन्सीमन्नित्यादौ (उ ४-१५०) होमञ्शब्दो मनिन्प्रत्ययांतो निपात्यते । मन ज्ञाने । लेट्यडागमः । सिब्बहुलं लेटेति सिप् । वीतिहोत्रः । वी गत्यादिषु । अस्मात्कर्मणि मंत्रे वृषेत्यादिना क्तिन् स चोदात्तः । होत्रं होम । हुयामाश्रुभसिभ्यस्त्रन् (उ ४-१६७) इति त्रन्प्रत्ययः । वीति प्राप्तो होमो येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुदेवः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ १८ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः