मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १९

संहिता

त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥

पदपाठः

त्वम् । अ॒ङ्ग । प्र । शं॒सि॒षः॒ । दे॒वः । श॒वि॒ष्ठ॒ । मर्त्य॑म् ।
न । त्वत् । अ॒न्यः । म॒घ॒ऽव॒न् । अ॒स्ति॒ । म॒र्डि॒ता । इन्द्र॑ । ब्रवी॑मि । ते॒ । वचः॑ ॥

सायणभाष्यम्

अंगेत्यभिमुखीकरणे । अंग शविष्ठ हे बलवत्तमेंद्रदेवो द्योतमानस्त्वं मर्त्यं मरणधर्माणं त्वां स्तुतवंतं पुरुषं प्र शंसिषः । सम्यगनेन स्तुतमिति प्रशंस । हे मघवन् धनवन्निंद्र त्वदन्यस्त्वत्तोऽन्यः कश्चिन्मर्डिता सुखयिता नास्ति । अतः कारणात्ते तुभ्यमिदं स्तुतिलक्षणं वचो ब्रवीमि । उच्चारयामि ॥ शंसिषः । शन्सु स्तुतौ । लेट सिप्यडागमः । सिब्बहुलं लेटेति विकरणश्च सिप् । तस्यार्धधातुकत्वादिडागमः । शविष्ठ । अतिशयेन शवस्वी शविष्ठः । इष्ठनि विन्मतोर्लुक् । टेरिति टलोपः । मर्डिता । मृड सुखने । तृच इडागमः ॥ १९ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः