मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् २०

संहिता

मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥

पदपाठः

मा । ते॒ । राधां॑सि । मा । ते॒ । ऊ॒तयः॑ । व॒सो॒ इति॑ । अ॒स्मान् । कदा॑ । च॒न । द॒भ॒न् ।
विश्वा॑ । च॒ । नः॒ । उ॒प॒ऽमि॒मी॒हि । मा॒नु॒ष॒ । वसू॑नि । च॒र्ष॒णिऽभ्यः॑ । आ ॥

सायणभाष्यम्

हे वसो निवासयतरिंद्र ते तव संबंधीनि राध्नोत्येभिरिति राधांसि भूतान्यस्मान्कदा चन कदाचिदपि मा दभन् । मा विनाशयंतु । तथोतयो गंतारः । यद्वा । धूतय इत्यत्र वर्णलोपः । धूतयः कंपयितारस्ते त्वदीया मरुतश्च मा दभन् । हे मानुष मनुष्यहितेंद्र चर्षणिभ्यो मंत्रद्रष्टृभ्यो नोस्मभ्यं विश्वा विश्वानि सर्वाणि वसूनि धनानि च आ उपमिमीहि । सर्वत आहृत्यास्मत्समीपे कुरु । सर्वत्र वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥ कदा । किंशब्दात्सर्वैकान्यकिंयत्तदः काले देति दाप्रत्ययः । किमः क इति कादेशः । व्यत्ययेनाद्युदात्तत्वम् । दभन् । दन्भु दंभे । लोडर्थे छांदसे लङि बहुलं छंदसीति विकरणस्य लुक् । न माङ्योग इत्यडभावः । मिमीहि । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । भृञामिदित्यभ्यासस्येत्वम् । हेर्ङित्त्वात् घुमास्थेतीत्वं ॥ २० ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः