मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ३

संहिता

गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः ।
बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥

पदपाठः

गोऽमा॑तरः॑ । यत् । शु॒भय॑न्ते । अ॒ञ्जिऽभिः॑ । त॒नूषु॑ । शु॒भ्राः । द॒धि॒रे॒ । वि॒रुक्म॑तः ।
बाध॑न्ते । विश्व॑म् । अ॒भि॒ऽमा॒तिन॑म् । अप॑ । वर्त्मा॑नि । ए॒षा॒म् । अनु॑ । री॒य॒ते॒ । घृ॒तम् ॥

सायणभाष्यम्

गोमातरो गोरूपा भूमिर्माता येषां ते मरुत अंजिभी रूपाभि व्यंजकैराभरणैर्यद्यदा शुभयंते स्वकीयान्यंगानि शोभायुक्तानि कुर्वंति तदानीं शुभ्रा दीप्ता मरुतस्तनूषु स्वकीयेषु शरीरेषु विरुक्मतो विशेषेण रोचमानानलंकारान्दधिरे । धारयंति । अपि च विश्वं सर्वमभिमातिनं शत्रुमप बाधंते । हिंसंति । एषां मरुतां वर्त्मानि मार्गाननुसृत्य घृतं क्षरणशीलमुदकं रीयते । स्रवति । यत्र मरतो गच्छंति वृष्व्युदकमपि तदनुसारेण तत्र गच्छतीत्यर्थः ॥ शुभयंते । संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । अंजिभिः । अञ्जू व्यक्तिम्रक्षणगतिषु । खनिकषिकस्यंज्यसिवसिद्वनिस्तनिवनिसनिग्रंथि चरिभ्यश्च (उ ४-१३९) इतीप्रत्ययः । शुभ्राः । शुभदीप्तौ । स्फायितंचीत्यादिना रक् । विरुक्मतः । विशिष्टा रुक् विरुक् । तद्वंतो विरुक्मंतः । मतुप्ययस्मयादित्वेन पदत्वात्कुत्वम् । भत्वात् जश्त्वाभावः । रीयते रीङ् । स्रवणे । दैवादिकः ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः