मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ६

संहिता

आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑न॒ः प्र जि॑गात बा॒हुभि॑ः ।
सीद॒ता ब॒र्हिरु॒रु व॒ः सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥

पदपाठः

आ । वः॒ । व॒ह॒न्तु॒ । सप्त॑यः । र॒घु॒ऽस्यदः॑ । र॒घु॒ऽपत्वा॑नः । प्र । जि॒गा॒त॒ । बा॒हुऽभिः॑ ।
सीद॑त । आ । ब॒र्हिः । उ॒रु । वः॒ । सदः॑ । कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒तः॒ । मध्वः॑ । अन्ध॑सः ॥

सायणभाष्यम्

तृतीयसवन आ वो वहंत्विति पोतुः प्रस्थितयाज्या । सूत्रितं च । आ वो वहंतु सप्तयो रघुष्यदोऽमेव नः सुहवा आ हि गंतन (आ ५-५) इति ॥

हे मरुतो वो युष्मान् सप्तयः सर्पणशीला अत्मा आ वहंतु । अस्मद्यज्ञं प्रापयंतु । कीदृशाः सप्तयः । रघुष्यदो लघु शीघ्रं स्यंदमानाः । वेगेन गच्छंत इत्यर्थः । रघुपत्वानो लघु शीघ्रं पतंतो गच्छंतो यूयं बाहुभिः स्वकीयैर्हस्तैरस्मभ्यं दातव्यं धनमाहृत्य प्र जिगात । प्रकर्षेण गच्छत । हे मरुतो वो युष्माकं सदः सदनं वेदिलक्षणं स्थानमुरु विस्तीर्णं कृतम् । तत्र यदास्तीर्णं बर्हिस्तदा सीदत । तस्मिन्बर्हिष्युपविशत । उपविश्य च मध्वो मधुरस्यांधसः सोमलक्षणस्यान्नस्य पानेन मादयध्वम् । तृप्ता भवत ॥ रघुष्यदः । रघु स्यंदंत इति रघुष्यदः । स्यंदू प्रस्रवणे । क्विप्चेति क्विप् । अनिदितामिति नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रघुपत्वानः । पत्लृ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । जिगात । गा स्तुतौ । जौहोत्यादिकः । जिगातीति गतिकर्मसु पाठादत्र गत्यर्थः । लोण्मध्यमबहुवचनस्य तप्तनप्तनथनाश्चेति तबादेशः । तस्य पित्त्वेन ङित्त्वा भावादी हल्यघोरितीत्वाभावः । सदः । अतः कृकमीति (पा ८-३-४६) विजर्सनीयस्य सत्वम् । मादयध्वं मद तृप्तियोगे । चुरादिरात्मनेपदी ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः