मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ९

संहिता

त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् ।
ध॒त्त इन्द्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वम् ॥

पदपाठः

त्वष्टा॑ । यत् । वज्र॑म् । सुऽकृ॑तम् । हि॒र॒ण्यय॑म् । स॒हस्र॑ऽभृष्टिम् । सु॒ऽअपाः॑ । अव॑र्तयत् ।
ध॒त्ते । इन्द्रः॑ । नरि॑ । अपां॑सि । कर्त॑वे । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्ज॒त् । अ॒र्ण॒वम् ॥

सायणभाष्यम्

स्वपाः शोभनकर्मा त्वष्टा विश्वनिर्माता यद्वज्रमवर्तयत् इंद्रं प्रत्यगमयत् । दत्तवानित्यर्थः । कीदृशम् । सुकृतं सम्यङ्निष्पादितं हिरण्ययं सुवर्णमयं सहस्रभृष्टिमनेकाभिर्धाराभिर्युक्तम् । तद्वज्रमिंद्रो धत्ते । धारयति । किमर्थम् । नरि । अत्र नृ संबंधान्नृ शब्देन संग्रामोऽभिधीयते । संग्रामेऽपांसि शत्रुहननादिलक्षणानि कर्माणि कर्तवे कर्तुम् । एवं वज्रं धृत्वा तेन वज्रेण वृत्रं वृष्ट्युदकस्यावरकमर्णवमर्णसोदकेन युक्तं मेघमहन् । अवधीत् । अपां तेन निरुद्धा आपश्च स निरौब्जत् । निःशेषेणाधोमुखमपातयत् । प्रवृष्टा अकरोदित्यर्थः ॥ सुकृतम् । सुपूर्वात्करोतेः कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । हिरण्ययम् । हिरण्यशब्दादुत्तरस्य मयटो मकारस्य लोप ऋत्व्यवास्त्व्यवा स्त्वेत्यादौ निपात्यते । स्वपाः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । कर्तवे । तमर्थे सेसेनिति करोतेस्तवेन्रत्ययः । अपाम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वच्चतुर्थ्यर्थे षष्ठी । ऊडिदमिति विभक्तेरुदात्तत्वम् । औब्जत् । उब्ज आर्जवे । अर्णवम् । अर्णसो लोपश्च । का ५-२-१०९-३ । इति मत्वर्थीयो वः सलोपश्च ॥ ९ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०