मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् १०

संहिता

ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् ।
धम॑न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥

पदपाठः

ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । ते । ओज॑सा । द॒दृ॒हा॒णम् । चि॒त् । बि॒भि॒दुः॒ । वि । पर्व॑तम् ।
धम॑न्तः । वा॒णम् । म॒रुतः॑ । सु॒ऽदान॑वः । मदे॑ । सोम॑स्य । रण्या॑नि । च॒क्रि॒रे॒ ॥

सायणभाष्यम्

अत्रेयमाख्यायिका । गोतम ऋषिः पिपासया पीडितः सन् मरुत उदकं ययाचे । तदनंतरं मरुतोऽदूरस्थं कूपमुद्धृत्य यत्र स गोतम ऋषिस्तिष्ठति तां दिशं नीत्वा ऋषिसमीपे कूपमवस्थाप्य तत्पार्श्व आहावं च कृत्वा तस्मिन्नाहावे कुपमुत्सिच्य तमृषिं तेनोदकेन तर्पयां चक्रुः । अयमर्थोऽनयोत्तरया च प्रतिपाद्यते ॥ ते मरुतोऽवतम् । अवस्तात्ततो भवतीत्यवतः कूपः । कूपनामसु चावतोऽवट इति पठितम् । तमूर्ध्वमुपरि यथा भवति तथौजसा स्वकीयेन बलेन नुनुद्रे । प्रेरितवंतः । उत्बातवंत इत्यर्थः । एवं कूपमुत्खाय ऋषेराश्रमं प्रति नयंतो मरुतो मार्गमध्ये ददृहाणं प्रवृद्धं गतिनिरोधकं पर्वतं चित् पर्ववंतं शिलोच्चयमपि वि बिभिदुः । विशेषेण बभंजुः । सुदानवः सोभनदानास्ते मरुतो वाणं शतसंख्याभिस्तंत्रीभिर्युक्तं वीणाविशेषं धमंतो वादयंत स्तोतृभ्यः कुर्वंति ॥ नुनुद्रॆ । णुद प्रेरणे । लिटरयो र इति रेआदेशः । ददृहा णम् । दृह दृहि वृद्धौ । लिटः कानच् । धमंतः । ध्मा शब्दाग्नि संयोगयोः । पाघ्रेत्यादिना धमादेशः । वाणम् । अण रण वण शब्दार्थाः । कमणि घञ् । कर्षातृत इत्यप् । ततो भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वं ॥ १० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०