मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ११

संहिता

जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ ।
आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नव॒ः कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥

पदपाठः

जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया॑ । दि॒शा । असि॑ञ्चन् । उत्स॑म् । गोत॑माय । तृ॒ष्णऽजे॑ ।
आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव॑सा । चि॒त्रऽभा॑नवः । काम॑म् । विप्र॑स्य । त॒र्प॒य॒न्त॒ । धाम॑ऽभिः ॥

सायणभाष्यम्

मरुतोऽवतमुद्धृतं कूपं यस्यां दिशि ऋषिर्वसति तया दिशा जिह्मं वक्रंतिर्यंचं नुनुद्रे । प्रेरितवंतः । एवं कूपं नीत्वा ऋष्याश्रमेऽवस्थाप्य तृष्टजे तृषिताय गोतमाय ऋषये तदर्थमुत्सं जलप्रवाहं कूपादुद्धृत्यासिंचन् । आहावेऽवानयन् । एवं कृत्वेमेनं स्तोतारमृषिं चित्रभानवो विचित्रदीप्तयस्ते मरुतोऽवसेदृशेन रक्षणेन सहा गच्छंति । तत्समीपं प्राप्नुवंति । प्राप्य च विप्रस्य मेधाविनो गोतमस्य काममभिलाषं दामभिरायुषो धारकैरुदकैस्तप्रयंत । अतर्पयन् ॥ तया । न गोश्वन्साववर्णेति सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य प्रतिषेधः । दिशा । सावेकाच इति विभक्तेरुदात्तत्वम् । तृष्णजे ञितृषा पिपासायाम् । स्वपितृषोर्नजिङ् (पा ३-२-१७२) प्रत्ययाद्युदात्तत्वम् । पदकारस्य शाकल्यस्य त्वयमभिप्रायः । अन्येष्वपि दृश्यत इति दृशिग्रहणात्केवलादपि जनेर्डप्रत्ययः । तृष्णाजाता यस्य स तथोक्तः । ङ्यापोः संज्ञाच्छंदसोर्बहुलमिति ह्रस्वत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । धामभिः । दधातेरातो मनिन्निति मनिन् ॥ ११ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०