मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् १

संहिता

मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
स सु॑गो॒पात॑मो॒ जनः॑ ॥

पदपाठः

मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ ।
सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥

सायणभाष्यम्

मरुतो यस्येति दशर्चं द्वितीयं सूक्तं गोतमस्यार्षं गायत्रं मरुद्देवताकम् । अनुक्रम्यते च । मरुतो दश गायत्रमिति ॥ व्यूळ्हे तृतीये छंदोम आग्निमारुते शस्त्र एतत्सूक्तम् । तृतीयस्यागन्म महेति खंडे सूत्रितम् । मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् (आ ८-११) इति ॥ ऐंद्रामारुत्यां प्रधानस्य हविषो मरुतो यस्येत्येषानुवाक्या । सूत्रितं च । ऐंद्रामारुतीं भेदकामा मरुतो यस्य हि क्षये (आ २-११) इति ॥ एषैव वरुणप्रघासेषु मारुता आमिक्षाया अनुवाक्या । सूत्रितं च । मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेव । आ । २-१७ । इति ॥ तथा प्रातःसवने पोतुरेषा प्रस्थितयाज्या । सूत्रितं च । मरुतो यस्यहि क्षयेऽग्ने पत्नीरिहा वह (आ ५-५) इति ॥

हे विमहसो विशिष्टप्रकाशा मरुतो दिवोऽंतरिक्षलोकादागत्य यस्य हि यस्य खलु यजमानस्य क्षये यज्ञ गृहे पाथ सोमं पिबथ स जनो जातो यजमानः सुगोपातमः शोभनैः पालकैरत्यंतं युक्तो भवति ॥ पाथ । पा पाने । लट बहुलं छंदसीति शपो लुक् । यद्वृत्तयोगादनिघातः । विमहसः । विशिष्टं महस्तेजो येषां ते तथोक्ताः । सुगोपातमः । शोभनो गोपा रक्षको यस्य स सुगोपाः सुगोपातमः । तमपः पित्वादनुदात्तत्वे सहि बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वमेव शिष्यते ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११