मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् २

संहिता

य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
मरु॑तः शृणु॒ता हव॑म् ॥

पदपाठः

य॒ज्ञैः । वा॒ । य॒ज्ञ॒ऽवा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् ।
मरु॑तः । शृ॒णु॒त । हव॑म् ॥

सायणभाष्यम्

हे यज्ञवाहसो यज्ञस्य वोढारो मरुतो यूयं यज्ञैर्वा । वाशब्दः समुच्चये । यज्ञैश्च यजमानस्य मतीनां सुत्तीनां संबंधिनो विप्रस्य वा यजमानस्य मेधाविनश्च हवमाह्वानं शृणुत । यज्ञवतो यजमानस्य यागरहितस्य स्तोतुश्चाह्वानमवत्यं भवद्भिः श्रोतव्यं यतो भवंतो यज्ञस्य वोढारः स्तुतिप्रियाश्चेति भावः ॥ यज्ञवाहसः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनाद्वहिहाधाञ्भ्य् श्चंदसीति कारकपूर्वाद्वहतेरसुन् । णिदित्यनुवृत्तेरुपधावृद्धिः । मतीनां मन ज्ञाने । अस्मात्करणे क्तिन् । नामन्यतरस्यामिति नाम उदात्तत्वम् । शृणुत । श्रुवः शृचेति श्नुः । सति शिष्वस्य स्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनात्तिङ एव स्वरः शिष्यते । मरुत इत्यस्यामंत्रितस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वेन पदादपरत्वान्निघाताभावः । हवम् । भावेऽनुपसर्गस्येति ह्वयतेरप् संप्रसारणं च ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११