मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ३

संहिता

उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत ।
स गन्ता॒ गोम॑ति व्र॒जे ॥

पदपाठः

उ॒त । वा॒ । यस्य॑ । वा॒जिनः॑ । अनु॑ । विप्र॑म् । अत॑क्षत ।
सः । गन्ता॑ । गोऽम॑ति । व्र॒जे ॥

सायणभाष्यम्

उत वापि च यस्य यजमानस्य वाजिनो हविर्लक्षणान्नोपेता ऋत्विजो विप्रं मेधाविनं मरुद्गणमन्वतक्षत हविष्प्रदानादिना तीक्ष्णीकुर्वंति स यजमानो गोमति बहुभिर्गोभिर्युक्ते व्रजे गोष्ठे गंता गमनशीलो भवति ॥ अतक्षत । तक्षूत्वक्षू तनूकरणे । छांदसो लङ् । व्यत्ययेन मध्यमः । गंता । गमेस्ताच्छीलिकस्तृन् ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११