मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ६

संहिता

पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
अवो॑भिश्चर्षणी॒नाम् ॥

पदपाठः

पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रत्ऽभिः॑ । म॒रु॒तः॒ । व॒यम् ।
अवः॑ऽभिः । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

हे मरुतः पूर्वीभिर्बह्वीभिः शरद्भिः संवत्सरैश्चर्षणीनां सर्वस्य द्रष्टृणां सर्वज्ञानां भवतां संबंधिभिरवोभी रक्षणैर्युक्ताः संतो वयं ददाशिम । युष्मभ्यं हवींषि दत्तवंतः । हि यस्मादर्थे । यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छतेत्यर्थः ॥ पूर्वीभिः । पुरुशब्दाद्वोतो गुणवचनादिति ङीष् । यणादेशे हलि चेति दीर्घत्वम् । ददाशिम । दाशृ दाने । लिटीडागमः । हि चेति निघातप्रतिषेधः । चर्षणीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वं ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२