मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ७

संहिता

सु॒भग॒ः स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्य॑ः ।
यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥

पदपाठः

सु॒ऽभगः॑ । सः । प्र॒ऽय॒ज्य॒वः॒ । मरु॑तः । अ॒स्तु॒ । मर्त्यः॑ ।
यस्य॑ । प्रयां॑सि । पर्ष॑थ ॥

सायणभाष्यम्

हे प्रयज्यवः प्रकर्षेण यष्टव्या मरुतः स मर्त्यो मनुष्यो यजमानः सुभगोऽस्तु । शोभनधनो भवतु । यस्य यजमानस्य प्रयांसि हविर्लक्षणान्यन्नानि पर्षथ आत्मनि सिंचथ । स्वीकुरुथेत्यर्थः ॥ सुभगः भग इति धननाम । शोभनो भगो यस्य । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । पर्षथ । पृषु वृषु मृषु सेचने । भौवादिकः । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः ॥ ७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२