मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ८

संहिता

श॒श॒मा॒नस्य॑ वा नर॒ः स्वेद॑स्य सत्यशवसः ।
वि॒दा काम॑स्य॒ वेन॑तः ॥

पदपाठः

श॒श॒मा॒नस्य॑ । वा॒ । न॒रः॒ । स्वेद॑स्य । स॒त्य॒ऽश॒व॒सः॒ ।
वि॒द । काम॑स्य । वेन॑तः ॥

सायणभाष्यम्

हे सत्यशवसोऽवितथबला नरो नेतारो मरुतः शशमानस्य युष्मान्स्तुतिभिः संभजमानस्य स्वेदस्य स्तावकमंत्रोच्चारणजनितेन श्रमेण स्विद्यमानगात्रस्य वेनतः । वेनतिः कांतिकर्मा । कामयमानस्य । वाशब्दः समुच्चये । एवंभूतस्य स्तोतुश्च कामस्य काममभिलाषं विद । लंभयत । प्रयच्छतेत्यर्थः ॥ शशमानस्य । शशप्लुतगतौ । ताच्छीलिकश्चानश् । स्वेदस्य । ञंष्विदा गात्रप्रक्षरणे अंतर्भावितण्यर्थात्कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । विद । विद्लृलाभे । लोट मध्यमपुरुषबहुवचनस्य व्यत्ययेन झादेशः । बहुलं छंदसीति विकरणस्य लुक् । झस्यादादेशः । लोपस्त आत्मनेपदेष्विति तलोषः । प्रत्ययाद्युदात्तत्वम् । पादादित्वान्निघाताभावः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । कामस्य । वृषादिषु पाठादाद्युदात्तत्वम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ ८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२