मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् १०

संहिता

गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् ।
ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥

पदपाठः

गूह॑त । गुह्य॑म् । तमः॑ । वि । या॒त॒ । विश्व॑म् । अ॒त्रिण॑म् ।
ज्योतिः॑ । क॒र्त॒ । यत् । उ॒श्मसि॑ ॥

सायणभाष्यम्

हे मरुतो गुह्यं गुहायां स्थितं सर्वत्र व्याप्य वर्तमानं तमोऽंधकारं गूहत । संवृत कुरुत । यद्वा । गुह्यं गुहायां शरीरांतर्गतगुहारूपे हृदये भवं तमो भावरूपाज्ञानम् । तद्गूहत । विनाशयत । अत्रिणं पुरुषार्थस्यात्तारं कामक्रोधादिकं सर्वं विनिर्गमयत । यज्ज्योतिः परतत्त्वसाक्षात्काररूपं ज्ञानं कामयामहे प्राणापानादिपंचवृत्तिरूपा हे मरुतस्तत्कर्त । कुरुत ॥ गूहत । गुहू संवरणे । शपि लघूपधगुण ऊदुपधाया गोहः (पा ६-४-५९) इत्युपधाया ऊकारः । यात । या प्रापणे । अस्मादंतर्भावितण्यर्थाल्लोट् । अत्रिणम् । अदेस्त्रिनि च (उ ४-६८) इति त्रिनिप्रत्ययः । उश्मसि । वश कांतौ । इदंतो मसिः । आदादित्वाच्चपो लुक् । ग्रहि ज्यादिना संप्रसारणं ॥ १० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२