मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८७, ऋक् २

संहिता

उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुत॒ः केन॑ चित्प॒था ।
श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ॥

पदपाठः

उ॒प॒ऽह्व॒रेषु॑ । यत् । अचि॑ध्वम् । य॒यिम् । वयः॑ऽइव । म॒रु॒तः॒ । केन॑ । चि॒त् । प॒था ।
श्चोत॑न्ति । कोशाः॑ । उप॑ । वः॒ । रथे॑षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑ऽवर्ण॑म् । अर्च॑ते ॥

सायणभाष्यम्

हे मरुत उपह्वरेषूपह्वर्तव्येषु गंतव्येष्वस्माकं सन्यिकृष्वेषु नभसः प्रदेशेषु यद्यदा ययिं गतिमंतं मेघमचिध्वं वर्षणसामर्थ्येनोपचितं कुरुथ । किं कुर्वंतः । वय इव पक्षिण इव केन चित्पथा केनचिदाकाशमार्गेण शीघ्रं गच्छंतः । नभसि शीघ्रं वर्षणार्थं प्रवर्तमानैर्मरुद्भिर्मेषा उपचीयंत इत्यर्थः । तदानीं कोशाः । मेघनामैतत् । वो युष्माकं रथेष्वासक्ता मेघाः श्चोतंति । जलं मुचंति । यस्मादेवं तस्मात् दे मरुतो यूयमर्चते युष्मान् हविर्भिः पूजयते मह्यं यजमानाय मधुवर्णं मधुसदृशरूपं स्वच्छं घृत वृष्ट्युदकमा समंतादुक्षत । सिंचत । अस्मदभिलषितां वृष्टिं कुरुतेत्यर्थः ॥ उपह्वरेषु । ह्वृ कौटिल्ये । उपह्वरंति कौटिल्येन तिर्यग्गच्छंत्येष्वित्युपह्वरानभः प्रदेशाः । पुंसि संज्ञायां घः प्रायेणेत्यधिकरणे घः । अचिध्वम् । चिनोतेर्वर्तमाने लङ् । बहुलं छंदसीति विकरणण्य लुक् । ययिम् । या प्रापणे आदृगमहनजन इति किप्रत्ययः । पथा । अङि भस्य टीर्लोप इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । श्चोतंति । श्च्यतिर् क्षरणे । छांदसो यलोपः । उक्षत । उक्षसेचनॆ लोट तशब्दस्य ङुत्त्वे सति ऋचि तुनुघेत्यादिना सांहितिको दीर्घः ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३