मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८७, ऋक् ३

संहिता

प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे ।
ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥

पदपाठः

प्र । ए॒षा॒म् । अज्मे॑षु । वि॒थु॒राऽइ॑व । रे॒ज॒ते॒ । भूमिः॑ । यामे॑षु । यत् । ह॒ । यु॒ञ्जते॑ । शु॒भे ।
ते । क्री॒ळयः॒ । धुन॑यः । भ्राज॑त्ऽऋष्टयः । स्व॒यम् । म॒हि॒ऽत्वम् । प॒न॒य॒न्त॒ । धूत॑यः ॥

सायणभाष्यम्

यद्ध यदा खल्वेते मरुतः शुभे शोभनाय वृष्ट्युदकाय युंजते मेघान् सज्जीकुर्वंति तदानीमज्जेषु मेघानामुत्क्षेपकेष्वेषां मरुतां संबंधिषु यामेषु मेघानां नियमनेषु सत्सु भूमिः पृथिवी प्र रेजते । प्रकर्षेण कंपते । यद्वा । यदा खलु मरुतः स्वकीयान्रथान्युंजते अश्वैर्योजयंति तदानीमेषां रथानां संबंधिषु पर्वतादेरुत्क्षॆपकेषु यामेषु गमनेषु भूमिर्भीत्या कंपते । तत्र दृष्टांतः । विथुरेव । यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालंबा सती कंपते तद्वत् । ते तादृशाः क्रीळयो विहारशीला धुनयश्चलनस्वभावा भ्राजदृष्वयः दीप्यमानायुधा एवंभूता मरुतो धूतयः पर्वतादीन्दुन्वंतः संतो महित्वं स्वकीयं महिमानं स्वयमेव पनयंत । व्यवहरंति । प्रकटयंतीत्यर्थः ॥ अज्मेषु । अज गतिक्षेपणयोः । अर्तिस्तुस्वित्यादिना विधीयमानो मन् बहुलवचनादस्मादपि द्रष्टव्यः । वलादावार्ध धातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनादजेर्व्यघञपोरिति वीभावाभावः । नित्त्वादाद्युदात्तत्वम् । रेजते । रेजृ कंपने । भ्यसते रेजत इति भयपेपनयोरिति यास्कः । नि । ३-२१ । यामेषु । यम उपरमे । भावे घञ् । कर्षात्वत इत्यंतो दात्तॆत्वेप्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । यद्वा । या प्रापण इत्यस्मादर्ति स्तुस्वित्या-दिना मन्प्रत्ययः । शुभे । शुभ दीप्तौ । संपदादिलक्षणः कर्मणि क्विप् । सावेकाचइति विभक्तेरुदात्तत्वम् । पनयंत । पन व्यवहारे । गुपूधूपविच्छेत्यायः (पा ३-१-२८) अस्राच्छांदसो लङ् । व्यत्ययेन ह्रस्वत्वं ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३