मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८८, ऋक् १

संहिता

आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥

पदपाठः

आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः ।
आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥

सायणभाष्यम्

आ विद्युन्मद्भिरिति षडृचं चतुर्थं सूक्तम् । अत्रानुक्रम्यते । आ विद्युन्मद्भिराद्यांते प्रस्तारपंक्ती पंचमी विराड्रूपेति । पूर्ववदृषिदेवते । आद्या षष्ठी च द्वे प्रस्तारपंक्ती । आद्यौ पादौ जागतौ तृतीयचतुर्थौ गायत्रौ यस्याः सा प्रस्तारपंक्तिः । सूत्रितं च । प्रस्तारपंक्तिः पुरतः । पिं ३-४० इति । अस्यायमर्थः । जागतौ गायत्रौ चेत्यनुवर्तते । यदि पुरतः पुरस्ताद्द्वौ जागतौ पादौ स्यातामंत्यौ गायत्रौ सा प्रस्तारपंक्तिरिति । एतत्त्यदित्येषा पंचमी विराड्रूपा । आदितस्त्रयः पादा एकादशका अंत्योऽष्टकः सा मीड्रूपेत्युच्यते ॥ विनियोगो लैंगिकः ॥

हे मरुतः । मितं निर्मितमंतरिक्षं प्राप्य रुवंति शब्दं कुर्वंतीति मरुतः । यद्वा । अमितं भृशं शब्दकारिणः । अथवा मितं स्वैर्निर्मितं मेघं प्राप्य विद्युदात्मना रोचमानाः । अथवा महत्यंत्यरिक्षे द्रवंतीति मरुतः । ये मध्यमस्थाने देवगणाः समाम्नातास्ते सर्वे मरुत आख्यायंते । तथा चाहुः । सर्वा स्त्री मध्यमस्थाना पुमान् वायुश्च सर्वगः । गणाश्च सर्वे मरुत इति वृद्धानुशासनमिति । पौराणिकास्त्वाचक्षते । मारीचात्कश्यपात्सप्तगणात्मका एकोनपंचाशत्सख्याका मरुतो जज्ञिर इति । एवंभूता हे मरुतो रथेभिरात्मीयै रथैरा यात अस्मदीयं यज्ञमागच्छत । कीदृशै रथैः । विद्युन्मद्भिः । विद्योतनं विद्युत् । विशिष्टदीप्तियुक्तैः स्वर्कैः स्वर्चनैः शोभनगमनयुक्तैः । यद्वा । शोभनमर्कोऽर्चनं स्तुतिर्येषामस्ति तादृशैः । अथवा शोभनदीप्तियुक्तैः । ऋष्विमद्भिः । ऋष्टयः शक्तिरूपाण्यायुधानि । स्थूणा इत्यन्ये । तद्वद्भिः । अश्वपर्णैः । अश्वानां पतनं गमनं येषामस्ति तादृशैः । यद्वा । रंहणशीला मेघा रथाः । तैः सहांतरिक्षे वर्षणार्थमागच्छथ । कीदृशैः विद्युन्मद्भिः । विद्युता तडिता तद्वद्भिः स्वर्कैः शोभनगमनैः ऋष्विमद्भिः । अर्षणं गमनम् । तत्स्वभावनीरयुक्तैः । आश्वपणैः । अश्वं व्याप्तं पर्णं पतनं गमनं येषाम् । अंतरिक्षं व्याप्य वर्तमानैरित्यर्थः । हे सुमायाः । मायेति कर्मणो ज्ञानस्य च नामधेयम् । शोभनकर्माणः शोभनप्रज्ञा वा मरुतो वर्षिष्ठया प्रवृद्दतरयेषास्मभ्यं दातव्येनान्नेन सह नोऽस्मान्प्रति वयो न पक्षिण इव शीघ्रमा पप्तत । आपतत । आगच्छतेत्यर्थः । अत्र निरुक्तम् । अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवंति । मरुतो मितराविणो वा मितरोचिनो वा महद्ब्रवंतीति वेति । विद्युन्मद्भिर्मरुतः स्वर्कैः स्वंचनैरिति वा स्वर्चनैरितिवा स्वर्चिभिरिति वा रथैरायात ऋष्विमद्भिरश्वपर्णैरश्वपतनैर्वर्षिष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याण प्रज्ञा वा । नि ११-१३, १४ । इति ॥ विद्युन्मद्भिः । यवादेराकृतिगणत्वेन विद्युच्छब्डस्य यवाद्यंतर्भावादयवादिभ्य इत्यत्रानुवृत्तेर्झयः (पा ८-२-१०) इति मतुपो वत्वं न प्रवर्तते । ऋष्विमद्भिः । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । अश्वपर्णैः । अशू व्याप्तौ । अशिप्रुषीत्यादिना क्वन्प्रत्ययः । बहुव्रीहौ पूर्वपद प्रकृतिस्वरत्वम् । वर्षिष्ठया । वृद्दशब्दादातिशायनिक इष्ठनि प्रियस्थिरेत्यादिना वर्षादेशः । पप्तत । पत्लृगतौ । लुङिलृदित्त्वात् च्लेरङादेशः । पतः पुम् (पा ७-४-१९) इति पुगागमः ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४