मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८८, ऋक् २

संहिता

ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गै॑ः शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वै॑ः ।
रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥

पदपाठः

ते । अ॒रु॒णेभिः॑ । वर॑म् । आ । पि॒शङ्गैः॑ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूःऽभिः॑ । अश्वैः॑ ।
रु॒क्मः । न । चि॒त्रः । स्वधि॑तिऽवान् । प॒व्या । रथ॑स्य । ज॒ङ्घ॒न॒न्त॒ । भूम॑ ॥

सायणभाष्यम्

ते पूर्वोक्ता मरुतोऽरुणेभिररुणवर्णैः पिशंगैः पिंगलवर्णैरुभयवर्णोपेतै रथतूर्भी रथस्य प्रेरयितृभिरश्वैर्वरं देवानां वरीतारं कं शब्दयितारं स्तुवंतं यजमानमा यांति । आगच्छंति । किमर्थम् । शुभे तस्य शोभां कर्तुम् । अथवा शुभ उदकाय य वृष्ट्यर्थमित्यर्थः । तेषां मरुतां गणो रुक्मो न रोचमानं सुवर्णमिव चित्रोऽतिशयेन दर्शनीयः स्वधितीवान् स्वधितिरिति वज्रनाम । शत्रूणां खंडकेनायुधेनोपेतः । एवंविधगणरूपास्ते मरुतो रथस्य पव्या चक्रधारया भूम भूमिं जंघनंत । अत्यर्थं घ्नंति । स्तोतृरक्षणार्थमागतानां तेषां मरुतां भारमसहमाना भूमिरतिपीडिता बभूवेत्यर्थः ॥ वरं व्रियंते देवा अनेनेति वरः । ग्रहवृदृनिश्चीति करणेऽप् । कम् । कै गै शब्दे । कायतीति कः । बहुलवचनात्कप्रत्ययः । रथतूर्भिः । तुर त्वरणे । रथं तुतुरिति त्वरायुक्तं कुर्वंतीति रथतुरः । क्विप्चेति क्विप् । भिसि हलि चेति दीर्घत्वम् । पव्या पवी रथनेमिर्भवंतीति यास्कः (नि ५-५) पूङ् पवने । अस्मादच इतीप्रत्ययः । उदात्तयण इति विभक्तेरुदात्तत्वम् । जंघनंत । हंतेर्यङंताद्वर्तमाने छांदसो लङ् । छंदस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ । भूम । भूमिशब्दादुत्तर स्यामः सुपां सुलुगिति डादेशः । छांदसं ह्रस्वत्वं ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४