मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८८, ऋक् ३

संहिता

श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा ।
यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥

पदपाठः

श्रि॒ये । कम् । वः॒ । अधि॑ । त॒नूषु॑ । वाशीः॑ । मे॒धा । वना॑ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा ।
यु॒ष्मभ्य॑म् । कम् । म॒रु॒तः॒ । सु॒ऽजा॒ताः॒ । तु॒वि॒ऽद्यु॒म्नासः॑ । ध॒न॒य॒न्ते॒ । अद्रि॑म् ॥

सायणभाष्यम्

हे मरुतो वो युष्माकं तनूषु शरीरेष्वंसप्रदेशेषु वाशीः शत्रूणामाक्रोशकमाराख्यमायुधं श्रिये कमैश्वर्यार्थं वर्तत इति शेषः । कमित्ये तत्पादपूरणम् । तदुक्तम् । अथापि पादपूरणाः कमीमिद्वितीति । तादृशा मरुतो वना न उच्छ्रितान्वृक्षसमूहानिव मेधा मेधान्यज्ञानूर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितन्कृणवंते । यजमानैः कारयंति । हे सुजाताः शोभनजननयुक्ता मरुतो यष्मभ्यं युष्मदर्थं कं सुखकरमद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं तुविद्युम्नासः प्रभूतधना यजमाना धनयंते । धनं कुर्वंति युष्माकं यागाय ग्रावभिरषुण्वंतीत्यर्थः ॥ वाशीः । शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः । ततश्चंदसीवनिपाविति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । मेधा । सुपां सुलुगिति शसो डादेशः । वना । शेश्छंदसि बहुलमिति शेर्लोपः । कृणवंते । कृवि हिंसाकरणयोश्च । लट व्यत्ययेनात्मनेपदम् । धिन्विकृण्वोरच्चेत्युप्रत्ययः । पुनरपि व्यत्ययेनांतादेशः । छंदस्युभयथेत्यार्धधातुकत्वेन झस्याङित्त्वाद्गुणेऽवादेशः । ऊर्ध्वा । पूर्ववड्डादेशः । धनयंते । धनशब्दात्तत्करोतीतिणिच् ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४