मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् १

संहिता

आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥

पदपाठः

आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ ।
दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

आ नो भद्रा इति दशर्चं पंचमं सूक्तम् । गोतमस्यार्षं वैश्वदेवम् । आदितः पंचर्चः सप्तमी च जगत्यः षष्ठी स्वस्तिन इंद्रेत्येषा विराट् स्थाना । नवकौ वैराजस्त्तैष्टुभश्च । अनु ९-५ । इत्युक्तलक्षणयोगात् । अष्टम्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुक्रांतम् । आ नो दश वैश्वदेवं तु पंचाद्याः सप्तमी च जगत्यः षष्ठी विराट् स्थानेति । अग्निष्टोमे वैश्वदेवशस्त्र उत्तमावर्जमेतत्सूक्तं वैश्वदेवनिविद्धानीयम् । सा तु प्रकृतौ विकृतौ च वैश्वदेवशस्त्रस्य परिधानीया । तथा च सूत्रितम् । आ नो भद्राः क्रतवो यंतु विश्वत इति नव वैश्वदेवम् (आ ५-१८) इति । अदितिर्द्यौरदितिरंतरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे (आ ५-१८) इति च । ब्राह्मणं च भवति । सदैव पंचजनीयया परिदध्यात् । ऐ ब्रा ३-३१ । इति ॥ महाव्रते निष्केवल्य एतत्सूक्तम् । तथा च पंचमारण्यके सूत्र्यते । आनोभद्रीयं च तस्य स्थाने । ऐ ब्रा । ५-३-२ । इति ॥

नोऽस्मान् क्रतवोऽग्निष्वोमादयो महायज्ञा विश्वतः सर्वस्मादपि दिग्भागादा यंतु । आगच्छंतु । कीदृशाः क्रतवः । भद्राः समिचीनफलसाधनत्वेन कल्याणा भजनीया वा अदब्धासोसुरैरहिंसिताः अपरीतासः शत्रुभिरपरिगताः । अप्रतिरुद्धा इत्यर्थः । उद्भिदः शत्रूणामुद्भेत्तारः । ईदृशाः क्रतवोऽस्मांस्तथागच्छंतु । अप्रायुवोऽप्रगच्छंतः स्वकीयं रक्षितव्यमपरित्यजंतः अत एव दिवे दिवे प्रतिदिवसं रक्षितारो रक्षां कुर्वंत एवंगुणविशिष्टाः सर्वे देवा नोऽस्माकं सदमित् सदैव वृधे वर्धनायासन् । भवंतु ॥ अदब्धासः दन्भु दंभॆ । दंभो हिंसा । निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरीतासः । इण् गतौ । पूर्ववत्कर्मणि निष्ठा । उभयत्राज्जसेरसुक् । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । असन् । अस भुवि । लेट्यडागमः बहुलं छंदसीति शपो लुगभावः । तस्याङुत्त्वात् श्नसोरल्लोप इत्यकारलोपाभावः । अप्रायुवः । इण् गतौ । अस्मात्प्रपूर्वाच्छंदसीण इत्युण्प्रत्ययः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । जसि जसादिषु च्छंदसि वावचनमिति गुणस्य विकल्पितत्वादभावे तन्वादित्वादुवङ् ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५