मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् ४

संहिता

तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥

पदपाठः

तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥

सायणभाष्यम्

वातो वायुस्तद्भेषजमौषधं नोऽस्मान्वातु । प्रापयतु । यद्भेषजं मयोभु मयसः सुखस्य भावयितृ । माता सर्वेषां जननी पृथिवी भूमिरपि तद्भेषजमस्मान्प्रापयतु । पिता वृष्टिप्रदानेन सर्वेषां रक्षिता द्यौर्दुलोकोऽपि तद्भेषजमस्मान्प्रापयतु । सोमसुतः सोमाभिषवं कृतवंतो मयोभुवो मयसो यागफलभूतस्य सुखस्य भावयितारो ग्रावाणोऽभिषवसाधनाः पाषाणाश्च तद्भेषजमस्मान्प्रापयंतु । हे धिष्ण्या । धिषणा बुद्धिः । तदर्हावश्विनौ युवं युवं तद्भेषजं शृणुतम् । आकर्णयतम् । यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते । तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः ॥ मयोभु । ह्रस्वो नपुंसके प्रातिपदिकस्य (पा १-२-४७) इति ह्रस्वत्वम् । वातु । वा गतिगंधनयोः । अंतर्भावितण्यर्थात्प्रार्थनायां लोट् । सोमसुतः । सोमे सुञः (पा ३-२-९०) इति भूते क्विप् । धिष्ण्या । धिषणाशब्दादर्हार्थे छंदसि चेति यः । वर्णलोपश्छांदसः । सुपां सुलुगित्याकारः ॥ ४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५