मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् ५

संहिता

तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥

पदपाठः

तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् ।
पू॒षा । नः॒ । यथा॑ । वेद॑साम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥

सायणभाष्यम्

पूर्वार्धेनेंद्रः स्तूयते । अपरार्धेन पूषा । ईशानमैश्वर्यवंतं अत एव जगतो जंगमस्य प्राणिजातस्य तस्थुषः स्थावरस्य च पतिं स्वामिनं धियंजिन्वं धीर्भिः कर्मभिः प्रीणयितव्यं एवंभूतं तमिंद्रमवसे रक्षणाय वयं हूमहे । अह्वयामः । पूषा नोऽस्माकं वेदसा धनानां वृधे वर्धनाय रक्षिता यथासत् येन प्रकारेण भवति तेनैव प्रकारेणादब्धः केनाप्यहिंसितः पूषा स्वस्तयेऽस्माकमविनाशाय पायुः रक्षिता भवतु ॥ तस्थुषः । तिष्ठतेर्लिटः क्वसुः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । धियंजिन्वम् । जिविः प्रीणनार्थः । कृत्यल्युटो बहुलमिति बहुलवचनात्खच् । इच एकाचोऽम् प्रत्ययवच्च (पा ६-३-६८) इत्यमागमः । असत् । अस भुवि । लेट्यडागमः । बहुलं छंदसीति शपो लुगभावः । पायुः । पा रक्षणे । कृवापाजीत्युण् । स्वस्तये । सुपूर्वादस्तेर्भावे क्तिन् छंदस्युभयथेति तस्य सार्वधातुकत्वादस्तेर्भूः (पा २-४-५२) इति भूभावाभाव इति वृत्तावुक्तं ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५