मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् ६

संहिता

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

पदपाठः

स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः ।
स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥

सायणभाष्यम्

वृद्धश्रवा वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृश इंद्रो नोऽस्माकम् । स्वस्तीत्यविनाशनाम (नि ३-२१) स्वस्त्यविनाशं दधातु । विदधातु । करोतु । विश्वमेधाः । विश्वानि वेत्तीति विश्ववेदाः । यद्वा । विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः पूषा पोषको देवो नोऽस्माकं स्वस्ति विदधातु । अरिष्टनेमि । नेमिरित्यायुधनाम । अरिष्टोऽहिंसितो नेमिर्यस्य । यद्वा । रथचक्रस्य धारा नेमिः । यत्संबंधिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्ट नेमिः । एवंभूतस्तार्क्ष्यस्तृक्षस्य पुत्रो गरुत्मान् नोऽस्माकं स्वस्त्यविनाशं विदधातु । तथा बृहस्पतिर्बृहतां देवानां पालयिता नोऽस्माकं स्वस्त्यविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । विद ज्ञाने । विद्लृलाभे आभ्यामसुन्मत्प्रत्ययांतो वेदस्शब्दः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्योयञ् (पा ४-१-१०५) ञित्त्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टाऽरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः बृहस्पतिः । तद्बृहतोः करपत्योः (पा ६-१-१५७) इति सुट् तलोपौ । उभेवनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६