मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् ७

संहिता

पृष॑दश्वा म॒रुत॒ः पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑व॒ः सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥

पदपाठः

पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः ।
अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥

सायणभाष्यम्

पृषदश्वाः । पृषद्भिः श्वेतबिंदुभिर्युक्ता अश्वा येषां ते तथोक्ताः । पृश्निमातरः । पृश्निर्नानावर्णा गौर्माता येषाम् । शुभंयामानः । शुभं यांति गच्छंतीति शुभंयावानः । शोभनगतय इत्यर्थः । विदथेषु यज्ञेषु जग्मयो गंतारः अग्निचिह्वा अग्नेर्जिह्वायां वर्तमानाः । सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तंते । तात्स्थ्यात्ताच्छब्द्यम् । मनवः सर्वस्य मंतारः सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां त एवंभूता मरुतो मरुत्संज्ञका विश्वे देवाः सर्वे देवा नोऽस्मानिहास्मिन्कालेऽवसा रक्षणेन सहा गमन् । आगच्छंतु ॥ शुभंयादानः । या प्रापणे । आतो मनिन्निति वनिप् । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । गमन् । गमेः प्रार्थनायां लेट्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् ॥ ७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६