मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् १

संहिता

ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
अ॒र्य॒मा दे॒वैः स॒जोषा॑ः ॥

पदपाठः

ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् ।
अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

ऋजुनीतीति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्यते । ऋजुनीती नव गायत्रमंत्यानुष्टुबिति । पूर्वत्र वैश्वदेवं त्वित्युक्तत्वात्तुह्यादिपरिभाषयेदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैंगिकः । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रवरुणस्य ऋजुनीती न इत्येषारंभणीया । चतुर्विंश इति खंडे सूत्रितम् । ऋजुनीती नो वरुण इंद्र वो विश्वतस्परि (आ ७-२) इति ॥ अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारंभणीया शंसनीया । सूत्रितं च । आरंभणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव (आ ७-१) इति ॥

अहरभिमानी देवो मित्रो वरुणो रात्र्यभिमानी । मित्रश्च वरुणश्च विद्वान् नेतव्यमुत्तमं स्थानं जानन् नोऽस्मान् ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन नयतु । अभिमतं फलं प्रापयतु । तथा देवैरन्यैरिंद्रादिभिः सजोषाः समानप्रीतिरर्यमाहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु ॥ ऋजुनीती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वं ॥ १ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७