मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् ३

संहिता

ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
बाध॑माना॒ अप॒ द्विषः॑ ॥

पदपाठः

ते । अ॒स्मभ्य॑म् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः ।
बाध॑मानाः । अप॑ । द्विषः॑ ॥

सायणभाष्यम्

अमृता अमरणधर्माणस्ते विश्वे देवा मर्त्येभ्यो मरणधर्मभ्योऽस्मभ्यमनुष्ठातृभ्यः शर्मामृतलक्षणं सुखं यंसन् । यच्छंतु । प्रयच्छंतु । किं कुर्वंतः । द्विषोऽस्मदीयान्पापलक्षणान् शत्रूनपबाधमानाः विनाशं प्रापयंतः ॥ यंसन् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । अमृताः । मृतं मरणं येषां नास्तीत्यमृताः । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७