मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् ४

संहिता

वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
पू॒षा भगो॒ वन्द्या॑सः ॥

पदपाठः

वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ ।
पू॒षा । भगः॑ । वन्द्या॑सः ॥

सायणभाष्यम्

वंद्यासः सर्वैर्वंदनीयाः स्तोतव्या नमस्कर्तव्या वेंद्रादयो देवानोऽस्माकं पथो मार्गान्वि चियंतु । विचिन्वंतु । अशोभनेभ्यो मार्गेभ्यः सकाशात्पृथक्कुर्वंतु । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय ॥ पथः । शसि भस्य टीर्लोप इति टलोपः । उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । सुविताय । इण् गतावित्यस्मात्कर्मणि निष्ठा । तन्वादीनां छंदसि बहुलमुपसंखानमित्युवङ् । गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वम् । चियंतु । चिञ् चयने । बहुलं छंदसीति विकरणस्य लुक् । इयण् । पादादित्वान्निघाताभावः । वंद्यासः । वदि अभिवादनस्तुत्योः । ऋहलोर्ण्यत् । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । आज्जसेरसुक् ॥ ४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७