मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् ५

संहिता

उ॒त नो॒ धियो॒ गोअ॑ग्रा॒ः पूष॒न्विष्ण॒वेव॑यावः ।
कर्ता॑ नः स्वस्ति॒मतः॑ ॥

पदपाठः

उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ इति॑ । एव॑ऽयावः ।
कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥

सायणभाष्यम्

अप्तोर्यामे संति चत्वार्यतिरिक्तोक्थानि । तत्र चतुर्थेऽच्छावाकातिरिक्तोक्थ उत नो धिय इत्येषानुरूपत्थचस्य वैकल्पिकी तृतीया । सूत्रितं च । उत नो धियो गोअग्रा इति वानुरूपस्योत्तमा । अ ९-११ । इति ॥

हे पूषन् पोषक देव हे विष्णो व्यापनशील देव हे एवयावः । एवैर्गंतृभिरश्वैर्याति गच्छतीत्येवयावा मरुद्गणः । हे मरुद्गण ते सर्वे यूयं नोऽस्माकं धियोऽप्तोर्यामलक्षणानि कर्माणि गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशाद्भ्रष्टैः पशुभिर्युक्तानि कर्त । कुरुत । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते । यस्मात्पशवः । प्रप्रेव भ्रꣲशेरन् स एतेन यजेत । तै ब्रा २-७-१४-२ । इति । उतापि च नोऽस्मान्स्वस्तिमतोऽविनाशिनः कुरुतः ॥ एवयावः । इण् गतौ । इण्शीङ् भ्यां वन्निति वन्प्रत्ययः । अस्मिन्नु पपदे या प्रापण इत्यस्मादातो मनिन्निति वनिप् । संबुद्धौ वन उपसंख्यानम् । पा ८-३-१-१ । इति वकारस्य रुत्वं ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७