मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् ६

संहिता

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥

पदपाठः

मधु॑ । वाताः॑ । ऋ॒त॒ऽय॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः ।
माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥

सायणभाष्यम्

ऋत्विगाद्यर्थमाहुतं मधुपर्कं मधु वाता इति तृचेन ऋत्विगादिः प्रतिग्रहीताऽवेक्षेत । तथा च सूत्र्यते । मधु वाता ऋतायत इति तृचेनावेक्ष्य । आ । गृ १-२४-१४ । इति ॥

ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय वाता वायवो मधुमाधुर्योपेतं कर्म फलं क्षरंति । वर्षंति । प्रयच्छंतीत्यर्थः । तथा सिंधवः स्यंदनशीला नद्यः समुद्रा वा मधु माधुर्योपेतं स्वकीयं रसं क्षरंति । एवं नोऽस्मभ्यमोषधीः फलपाकांता ओषधयस्ताश्च माध्वीर्माधुर्योपेताः संतु । भवंतु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य लुगकारेकाररेफाश्च वक्तव्याः । पा ४-४-१२८-२ । इति लुक् । ऋतायते । ऋतमात्मन इच्छति । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वदीर्घयोर्निपेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजंताल्लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च (पा ४-४-१२९) इति मत्वर्थीयोऽञ्प्रत्ययः । ऋत्व्यवास्त्व्येत्यादावञु यणादेशो निपात्यते । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाक आसुधीयत इत्योषधयः कर्मण्यधिकरणे चेति किप्रत्ययः । कृदिकारादक्तिन इति ङीप् । जसि पूर्ववत्पूर्वसवर्णदीर्घः । दासीभारादिषउ पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञंतमाद्युदात्तं ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८